Sukta 10.63
स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति । सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥
स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ । सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥
svastír ídd hí prápathe śréṣṭhā rékṇasvaty abhí yā́ vāmám éti | sā́ no amā́ só araṇé ní pātu svāveśā́ bhavatu devágopā ||
For well-being indeed is best upon the forward path, rich in plenitude, moving toward the desirable good. May she protect us here and in the far places, may she guard us in the wilderness; may she become for us an easy dwelling, guarded by the gods.
स्व॒स्तिः । इत् । हि । प्रऽप॑थे । श्रेष्ठा॑ । रेक्ण॑स्वती । अ॒भि । या । वा॒मम् । एति॑ । सा । नः॒ । अ॒मा । सो इति॑ । अर॑णे । नि । पा॒तु॒ । सु॒ऽआ॒वे॒शा । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥स्वस्तिः । इत् । हि । प्रपथे । श्रेष्ठा । रेक्णस्वती । अभि । या । वामम् । एति । सा । नः । अमा । सो इति । अरणे । नि । पातु । सुआवेशा । भवतु । देवगोपा ॥svastiḥ | it | hi | pra-pathe | śreṣṭhā | rekṇasvatī | abhi | yā | vāmam | eti | sā | naḥ | amā | so iti | araṇe | ni | pātu | su-āveśā | bhavatu | deva-gopā