Sukta 10.63
एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी । ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी । ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥
evā́ platéḥ sū́nur avīvṛdhat vo víśva ādityā adite manīṣī́ | īśānā́so náro amártyenā́stāvi jáno divyó gáyena ||
Thus has the son of Plati increased you, O all Ādityas, O Aditi, by his thought. O lords, O divine men, with the immortal (breath of inspiration) the luminous people has praised you with song.
ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी । ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥एव । प्लतेः । सूनुः । अवीवृधत् । वः । विश्वे । आदित्याः । अदिते । मनीषी । ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन ॥eva | plateḥ | sūnuḥ | avīvṛdhat | vaḥ | viśve | ādityāḥ | adite | manīṣī | īśānāsaḥ | naraḥ | amartyena | astāvi | janaḥ | divyaḥ | gayena