Sukta 10.63
यं देवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने । प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये ॥
यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ । प्रा॒त॒र्यावा॑णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये॑ ॥
yáṃ devā́so ’ávatha vā́ja-sātau yáṃ śū́ra-sātā maruto hité dháne | prātaryā́vāṇaṃ rátham indra sānásim áriṣyantam ā́ ruhemā svastáye ||
He whom the gods foster in the winning of plenitude, he whom the Maruts aid in the gaining of heroic force for the cherished treasure—upon the dawn-going chariot, O Indra, the chariot of attainment, unharmable, may we ascend for our safe arriving.
यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । शूर॑ऽसाता । म॒रु॒तः॒ । हि॒ते । धने॑ । प्रा॒तः॒ऽयावा॑नम् । रथ॑म् । इ॒न्द्र॒ । सा॒न॒सिम् । अरि॑ष्यन्तम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥यम् । देवासः । अवथ । वाजसातौ । यम् । शूरसाता । मरुतः । हिते । धने । प्रातःयावानम् । रथम् । इन्द्र । सानसिम् । अरिष्यन्तम् । आ । रुहेम । स्वस्तये ॥yam | devāsaḥ | avatha | vāja-sātau | yam | śūra-sātā | marutaḥ | hite | dhane | prātaḥ-yāvānam | ratham | indra | sānasim | ariṣyantam | ā | ruhema | svastaye