Sukta 10.63
विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः । सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥
विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुत॑: । स॒त्यया॑ वो दे॒वहू॑त्या हुवेम शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ॥
víśve yajatrā́ ádhi vocatótaye trā́yadhvaṃ no durévāyā abhíhrutaḥ | satyáyā vo deváhūtyā huvema śṛṇvató devā́ ávase svastáye ||
O all you adorable gods, speak forth for our help; protect us from ill-going and from being struck down. With a true call of the gods we invoke you—hear, O gods, for our aid, for our well-being.
विश्वे॑ । य॒ज॒त्राः॒ । अधि॑ । वो॒च॒त॒ । ऊ॒तये॑ । त्राय॑ध्वम् । नः॒ । दुः॒ऽएवा॑याः । अ॒भि॒ऽह्रुतः॑ । स॒त्यया॑ । वः॒ । दे॒वऽहू॑त्या । हु॒वे॒म॒ । शृ॒ण्व॒तः । दे॒वाः॒ । अव॑से । स्व॒स्तये॑ ॥विश्वे । यजत्राः । अधि । वोचत । ऊतये । त्रायध्वम् । नः । दुःएवायाः । अभिह्रुतः । सत्यया । वः । देवहूत्या । हुवेम । शृण्वतः । देवाः । अवसे । स्वस्तये ॥viśve | yajatrāḥ | adhi | vocata | ūtaye | trāyadhvam | naḥ | duḥ-evāyāḥ | abhi-hrutaḥ | satyayā | vaḥ | deva-hūtyā | huvema | śṛṇvataḥ | devāḥ | avase | svastaye