Sukta 10.62
प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु । यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥
प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु । यः स॒हस्रं॑ श॒ताश्वं॑ स॒द्यो दा॒नाय॒ मंह॑ते ॥
prá nūnáṃ jāyatām ayáṃ mánus tókmeva rohatu | yáḥ sahásraṃ śatá-aśvaṃ sadyó dānā́ya maṃhate ||
Now let this Manu be born forth and grow like a strong shoot; he who at once increases toward giving the thousandfold and the hundred swift energies.
प्र । नू॒नम् । जा॒य॒ता॒म् । अ॒यम् । मनुः॑ । तोक्म॑ऽइव । रो॒ह॒तु॒ । यः । स॒हस्र॑म् । श॒तऽअ॑श्वम् । स॒द्यः । दा॒नाय॑ । मंह॑ते ॥प्र । नूनम् । जायताम् । अयम् । मनुः । तोक्मइव । रोहतु । यः । सहस्रम् । शतअश्वम् । सद्यः । दानाय । मंहते ॥pra | nūnam | jāyatām | ayam | manuḥ | tokma-iva | rohatu | yaḥ | sahasram | śata-aśvam | sadyaḥ | dānāya | maṃhate