Sukta 10.62
इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तमश्विनम् । सहस्रं मे ददतो अष्टकर्ण्यः श्रवो देवेष्वक्रत ॥
इन्द्रे॑ण यु॒जा निः सृ॑जन्त वा॒घतो॑ व्र॒जं गोम॑न्तम॒श्विन॑म् । स॒हस्रं॑ मे॒ दद॑तो अष्टक॒र्ण्य१॒॑: श्रवो॑ दे॒वेष्व॑क्रत ॥
índreṇa yujā́ níḥ sr̥janta vāgháto vrajáṃ gómantam aśvínam | sahásraṃ me dádato aṣṭa-karṇyáḥ śrávo devéṣv akrata ||
Yoked with Indra, the chanters release outward the pen rich in rays and swift energies. Giving me the thousandfold, the Eight-eared ones fashioned for me a hearing-fame among the gods.
इन्द्रे॑ण । यु॒जा । निः । सृ॒ज॒न्त॒ । वा॒घतः॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् । स॒हस्र॑म् । मे॒ । दद॑तः । अ॒ष्ट॒ऽक॒र्ण्यः॑ । श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥इन्द्रेण । युजा । निः । सृजन्त । वाघतः । व्रजम् । गोमन्तम् । अश्विनम् । सहस्रम् । मे । ददतः । अष्टकर्ण्यः । श्रवः । देवेषु । अक्रत ॥indreṇa | yujā | niḥ | sṛjanta | vāghataḥ | vrajam | go--mantam | aśvinam | sahasram | me | dadataḥ | aṣṭa-karṇyaḥ | śravaḥ | deveṣu | akrata