Sukta 10.62
ये अग्नेः परि जज्ञिरे विरूपासो दिवस्परि । नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते ॥
ये अ॒ग्नेः परि॑ जज्ञि॒रे विरू॑पासो दि॒वस्परि॑ । नव॑ग्वो॒ नु दश॑ग्वो॒ अङ्गि॑रस्तमो॒ सचा॑ दे॒वेषु॑ मंहते ॥
yé agnéḥ pári jajñire virū́pāso divás pári | náva-gvo nú dáśa-gvo aṅgíras-tamo sácā devéṣu maṃhate ||
Those who were born from Agni, many-formed, from the wide heaven—now as the Nine-Gvas, now as the Ten-Gvas—he who is most Aṅgiras in essence grows great in union among the gods.
ये । अ॒ग्नेः । परि॑ । ज॒ज्ञि॒रे । विऽरू॑पासः । दि॒वः । परि॑ । नव॑ऽग्वः । नु । दश॑ऽग्वः । अङ्गि॑रःऽतमः । सचा॑ । दे॒वेषु॑ । मं॒ह॒ते॒ ॥ये । अग्नेः । परि । जज्ञिरे । विरूपासः । दिवः । परि । नवग्वः । नु । दशग्वः । अङ्गिरःतमः । सचा । देवेषु । मंहते ॥ye | agneḥ | pari | jajñire | vi-rūpāsaḥ | divaḥ | pari | nava-gvaḥ | nu | daśa-gvaḥ | aṅgiraḥ-tamaḥ | sacā | deveṣu | maṃhate