Sukta 10.62
अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन । सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
अ॒यं नाभा॑ वदति व॒ल्गु वो॑ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन । सु॒ब्र॒ह्म॒ण्यम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
ayáṃ nā́bhā vadati valgú vo gṛhé deva-putrā ṛṣayas tác chr̥ṇotana | su-brahmaṇyám aṅgirasaḥ vo astu práti gṛbhṇīta mānaváṃ su-medhasaḥ ||
This Nabhā speaks the fair and luminous word within your home; O seers, sons of the Divine, listen to that. Let there be for you, O Aṅgirases, a happy and strengthening power of the sacred Word; receive in return the human seeker, O you of good intelligence.
अ॒यम् । नाभा॑ । व॒द॒ति॒ । व॒ल्गु । वः॒ । गृ॒हे । देव॑ऽपुत्राः । ऋ॒ष॒यः॒ । तत् । शृ॒णो॒त॒न॒ । सु॒ऽब्र॒ह्म॒ण्यम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥अयम् । नाभा । वदति । वल्गु । वः । गृहे । देवपुत्राः । ऋषयः । तत् । शृणोतन । सुब्रह्मण्यम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुमेधसः ॥ayam | nābhā | vadati | valgu | vaḥ | gṛhe | deva-putrāḥ | ṛṣayaḥ | tat | śṛṇotana | su-brahmaṇyam | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ