Sukta 10.62
य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम् । दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
य उ॒दाज॑न्पि॒तरो॑ गो॒मयं॒ वस्वृ॒तेनाभि॑न्दन्परिवत्स॒रे व॒लम् । दी॒र्घा॒यु॒त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
yá udā́jan pítaro go-máyaṃ vásv ṛténa abhíndan pari-vatsaré válam | dīrghāyutvám aṅgiraso vo astu práti gṛbhṇīta mānaváṃ sumédhasaḥ ||
You Fathers who raised up the wealth that is of the Cow—who by the Truth broke open the enclosing Vala in the round of the year—may long-livingness be yours, O Angirases; receive the human being in return, O clear-intelligence.
ये । उ॒त्ऽआज॑न् । पि॒तरः॑ । गो॒ऽमय॑म् । वसु॑ । ऋ॒तेन॑ । अभि॑न्दन् । प॒रि॒ऽव॒त्स॒रे । व॒लम् । दी॒र्घा॒य॒ुऽत्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥ये । उत्आजन् । पितरः । गोमयम् । वसु । ऋतेन । अभिन्दन् । परिवत्सरे । वलम् । दीर्घायुत्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुमेधसः ॥ye | ut-ājan | pitaraḥ | go--mayam | vasu | ṛtena | abhindan | pari-vatsare | valam | dīrghāyu-tvam | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ