Sukta 10.62
ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश । तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒ इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा॑न॒श । तेभ्यो॑ भ॒द्रम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
yé yajñéna dákṣiṇayā sámaktā índrasya sákhyaṃ amṛtatvám ānaśá | tébhyo bhadrám aṅgiraso vo astu práti gṛbhṇīta mānaváṃ sumédhasaḥ ||
Those who are anointed by sacrifice and the giving-power (dakṣiṇā), who have attained the friendship of Indra and the state of deathlessness—may good be yours, O Angirases. Receive in return the human being, O clear-intelligence, and take him into your grasp.
ये । य॒ज्ञेन॑ । दक्षि॑णया । सम्ऽअ॑क्ताः । इन्द्र॑स्य । स॒ख्यम् । अ॒मृत॒ऽत्वम् । आ॒न॒श । तेभ्यः॑ । भ॒द्रम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥ये । यज्ञेन । दक्षिणया । सम्अक्ताः । इन्द्रस्य । सख्यम् । अमृतत्वम् । आनश । तेभ्यः । भद्रम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुमेधसः ॥ye | yajñena | dakṣiṇayā | sam-aktāḥ | indrasya | sakhyam | amṛta-tvam | ānaśa | tebhyaḥ | bhadram | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ