Sukta 10.60
यथेयं पृथिवी मही दाधारेमान्वनस्पतीन् । एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥
यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न् । ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥
yáthéyaṃ pṛthivī́ mahī́ dādhā́remā́n vanaspátīn | evā́ dādhāra te máno jīvā́tave ná mṛtyáve ’thó ariṣṭátātaye ||
As this great Earth holds these lordly trees, so may thy mind be held—for living, not for dying, and for unbroken safety.
यथा॑ । इ॒यम् । पृ॒थि॒वी । म॒ही । दा॒धार॑ । इ॒मान् । वन॒स्पती॑न् । ए॒व । दा॒धा॒र॒ । ते॒ । मनः॑ । जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥यथा । इयम् । पृथिवी । मही । दाधार । इमान् । वनस्पतीन् । एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टतातये ॥yathā | iyam | pṛthivī | mahī | dādhāra | imān | vanaspatīn | eva | dādhāra | te | manaḥ | jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye