Sukta 10.60
यमादहं वैवस्वतात्सुबन्धोर्मन आभरम् । जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥
य॒माद॒हं वै॑वस्व॒तात्सु॒बन्धो॒र्मन॒ आभ॑रम् । जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥
yamā́d aháṃ vaivasvatā́t súbandhor mána ā́bharam | jīvā́tave ná mṛtyáve ’thó ariṣṭátātaye ||
From Yama Vaivasvata I have brought back the mind of the well-linked one—back for living, not for dying, and for unbroken safety.
य॒मात् । अ॒हम् । वै॒व॒स्व॒तात् । सु॒ऽबन्धोः॑ । मनः॑ । आ । अ॒भ॒र॒म् । जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥यमात् । अहम् । वैवस्वतात् । सुबन्धोः । मनः । आ । अभरम् । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टतातये ॥yamāt | aham | vaivasvatāt | su-bandhoḥ | manaḥ | ā | abharam | jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye