Sukta 10.60
यथा युगं वरत्रया नह्यन्ति धरुणाय कम् । एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥
यथा॑ यु॒गं व॑र॒त्रया॒ नह्य॑न्ति ध॒रुणा॑य॒ कम् । ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥
yáthā yugáṃ varatráyā nahyánti dharuṇā́ya kám | evā́ dādhāra te máno jīvā́tave ná mṛtyáve ’thó ariṣṭátātaye ||
As men bind the yoke with the thong for firm holding, so may thy mind be held fast—for living, not for dying, and for unbroken safety.
यथा॑ । यु॒गम् । व॒र॒त्रया॑ । नह्य॑न्ति । ध॒रुणा॑य । कम् । ए॒व । दा॒धा॒र॒ । ते॒ । मनः॑ । जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥यथा । युगम् । वरत्रया । नह्यन्ति । धरुणाय । कम् । एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टतातये ॥yathā | yugam | varatrayā | nahyanti | dharuṇāya | kam | eva | dādhāra | te | manaḥ | jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye