Sukta 10.60
अयं मातायं पितायं जीवातुरागमत् । इदं तव प्रसर्पणं सुबन्धवेहि निरिहि ॥
अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत् । इ॒दं तव॑ प्र॒सर्प॑णं॒ सुब॑न्ध॒वेहि॒ निरि॑हि ॥
ayáṃ mātā́yáṃ pitā́yáṃ jīvā́tur ā́gamat | idáṃ táva pra-sárpaṇaṃ súbandhavéhi nír ihi ||
This is thy mother, this thy father; this thy life-breath has come. This is thy free movement: O one of good kinship, come forth—come out!
अ॒यम् । मा॒ता । अ॒यम् । पि॒ता । अ॒यम् । जी॒वातुः॑ । आ । अ॒ग॒म॒त् । इ॒दम् । तव॑ । प्र॒ऽसर्प॑णम् । सुब॑न्धो॒ इति॒ सुऽब॑न्धो । आ । इ॒हि॒ । निः । इ॒हि॒ ॥अयम् । माता । अयम् । पिता । अयम् । जीवातुः । आ । अगमत् । इदम् । तव । प्रसर्पणम् । सुबन्धो इति सुबन्धो । आ । इहि । निः । इहि ॥ayam | mātā | ayam | pitā | ayam | jīvātuḥ | ā | agamat | idam | tava | pra-sarpaṇam | subandho itisu-bandho | ā | ihi | niḥ | ihi