Sukta 10.60
अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता । पणीन्न्यक्रमीरभि विश्वान्राजन्नराधसः ॥
अ॒गस्त्य॑स्य॒ नद्भ्य॒: सप्ती॑ युनक्षि॒ रोहि॑ता । प॒णीन्न्य॑क्रमीर॒भि विश्वा॑न्राजन्नरा॒धस॑: ॥
agástyasya nádbhyaḥ saptī́ yunakṣi róhitā | paṇī́n ny akramīr abhí víśvān rājan arā́dhasaḥ ||
From the depths that belong to Agastya, yoke the seven ruddy powers; and, O King, march down upon the Paṇis—upon all the joyless hoarders who deny the offering.
अ॒गस्त्य॑स्य । नत्ऽभ्यः॑ । सप्ती॒ इति॑ । यु॒न॒क्षि॒ । रोहि॑ता । प॒णीन् । नि । अ॒क्र॒मीः॒ । अ॒भि । विश्वा॑न् । रा॒ज॒न् । अ॒रा॒धसः॑ ॥अगस्त्यस्य । नत्भ्यः । सप्ती इति । युनक्षि । रोहिता । पणीन् । नि । अक्रमीः । अभि । विश्वान् । राजन् । अराधसः ॥agastyasya | nat-bhyaḥ | saptī iti | yunakṣi | rohitā | paṇīn | ni | akramīḥ | abhi | viśvān | rājan | arādhasaḥ