Sukta 10.60
यस्येक्ष्वाकुरुप व्रते रेवान्मराय्येधते । दिवीव पञ्च कृष्टयः ॥
यस्म्ये॑क्ष्वा॒कुरुप॑ व्र॒ते रे॒वान्म॑रा॒य्येध॑ते । दि॒वी॑व॒ पञ्च॑ कृ॒ष्टय॑: ॥
yásmy ékṣvākúr úpa vraté revā́n marā́yy édhaté | divī́va páñca kṛṣṭáyaḥ ||
In whose law of working the Ikṣvāku grows luminous in riches and in the glad increase—like in heaven the five peoples grow by the light of that higher order.
यस्य॑ । इ॒क्ष्वा॒कुः । उप॑ । व्र॒ते । रे॒वान् । म॒रा॒यी । एध॑ते । दि॒विऽइ॑व । पञ्च॑ । कृ॒ष्टयः॑ ॥यस्य । इक्ष्वाकुः । उप । व्रते । रेवान् । मरायी । एधते । दिविइव । पञ्च । कृष्टयः ॥yasya | ikṣvākuḥ | upa | vrate | revān | marāyī | edhate | divi-iva | pañca | kṛṣṭayaḥ