Sukta 10.6
शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति । मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥
शू॒षेभि॑र्वृ॒धो जु॑षा॒णो अ॒र्कैर्दे॒वाँ अच्छा॑ रघु॒पत्वा॑ जिगाति । म॒न्द्रो होता॒ स जु॒ह्वा॒३॒॑ यजि॑ष्ठ॒: सम्मि॑श्लो अ॒ग्निरा जि॑घर्ति दे॒वान् ॥
śūṣébhiḥ vṛdhó juṣāṇó arkáiḥ devā́ṃ ácchā raghu-pátvā jigāti | mandró hótā sá juhvā́ yájiṣṭhaḥ sámmiślo agnír ā́ jigharti devā́n ||
Growing by strengths, taking delight, with hymns he goes swiftly to the gods. The rapturous Priest, most fit to sacrifice, with the ladle of offering—Agni, perfectly mingled, draws the gods to us.
शू॒षेभिः॑ । वृ॒धः । जु॒षा॒णः । अ॒र्कैः । दे॒वान् । अच्छ॑ । र॒घु॒ऽपत्वा॑ । ज॒गा॒ति॒ । म॒न्द्रः । होता॑ । सः । जु॒ह्वा॑ । यजि॑ष्ठः । सम्ऽमि॑श्लः । अ॒ग्निः । आ । जि॒घ॒र्ति॒ । दे॒वान् ॥शूषेभिः । वृधः । जुषाणः । अर्कैः । देवान् । अच्छ । रघुपत्वा । जगाति । मन्द्रः । होता । सः । जुह्वा । यजिष्ठः । सम्मिश्लः । अग्निः । आ । जिघर्ति । देवान् ॥śūṣebhiḥ | vṛdhaḥ | juṣāṇaḥ | arkaiḥ | devān | accha | raghu-patvā | jagāti | mandraḥ | hotā | saḥ | juhvā | yajiṣṭhaḥ | sam-miślaḥ | agniḥ | ā | jigharti | devān