Sukta 10.6
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम् । आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥
तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो॑भि॒रा कृ॑णुध्वम् । आ यं विप्रा॑सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे॑दसं जु॒ह्वं॑ स॒हाना॑म् ॥
tám usrā́m índraṃ ná réjamānam agníṃ gī́rbhir námobhir ā́ kṛṇudhvam | ā́ yáṃ viprā́so matíbhir gṛṇánti jātávedasaṃ juhvám sahā́nām ||
Make ready with words and reverence that radiant Agni, unshaken like Indra. Him whom the inspired ones praise with their understandings—Jātavedas, the offering-ladle of the powers that can endure and conquer.
तम् । उ॒स्राम् । इन्द्र॑म् । न । रेज॑मानम् । अ॒ग्निम् । गीः॒ऽभिः । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् । आ । यम् । विप्रा॑सः । म॒तिऽभिः॑ । गृ॒णन्ति॑ । जा॒तऽवे॑दसम् । जु॒ह्व॑म् । स॒हाना॑म् ॥तम् । उस्राम् । इन्द्रम् । न । रेजमानम् । अग्निम् । गीःभिः । नमःभिः । आ । कृणुध्वम् । आ । यम् । विप्रासः । मतिभिः । गृणन्ति । जातवेदसम् । जुह्वम् । सहानाम् ॥tam | usrām | indram | na | rejamānam | agnim | gīḥ-bhiḥ | namaḥ-bhiḥ | ā | kṛṇudhvam | ā | yam | viprāsaḥ | mati-bhiḥ | gṛṇanti | jāta-vedasam | juhvam | sahānām