Sukta 10.6
ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ । आ यस्मिन्मना हवींष्यग्नावरिष्टरथः स्कभ्नाति शूषैः ॥
ईशे॒ यो विश्व॑स्या दे॒ववी॑ते॒रीशे॑ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ । आ यस्मि॑न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ॥
ī́śe yó víśvasyā devávīter ī́śe viśvā́yur uṣáso vyùṣṭau | ā yásmin manā́ havī́ṃṣy agnā́v áriṣṭarathaḥ skabh́nāti śūṣáiḥ ||
He rules over every divine seeking; he rules, life-wide, in the dawning out of the Dawn. In him the mind sets its offerings into Agni; the unbroken-car advances and upholds by his mighty strengths.
ईशे॑ । यः । विश्व॑स्याः । दे॒वऽवी॑तेः । ईशे॑ । वि॒श्वऽआ॑युः । उ॒षसः॑ । विऽउ॑ष्टौ । आ । यस्मि॑न् । म॒ना । ह॒वींषि॑ । अ॒ग्नौ । अरि॑ष्टऽरथः । स्क॒भ्नाति॑ । शू॒षैः ॥ईशे । यः । विश्वस्याः । देववीतेः । ईशे । विश्वआयुः । उषसः । विउष्टौ । आ । यस्मिन् । मना । हवींषि । अग्नौ । अरिष्टरथः । स्कभ्नाति । शूषैः ॥īśe | yaḥ | viśvasyāḥ | deva-vīteḥ | īśe | viśva-āyuḥ | uṣasaḥ | vi-uṣṭau | ā | yasmin | manā | havīṃṣi | agnau | ariṣṭa-rathaḥ | skabhnāti | śūṣaiḥ