Sukta 10.6
यो भानुभिर्विभावा विभात्यग्निर्देवेभिॠतावाजस्रः । आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥
यो भा॒नुभि॑र्वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभि॑ॠ॒तावाज॑स्रः । आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्ति॑: ॥
yó bhānúbhir vibhā́vā vibhā́ty agnír devébhir ṛtā́vāj asráḥ | ā yó vivā́ya sakhyā́ sakhibhyo 'párihvṛto átyo ná sáptiḥ ||
He who with his rays shines forth, the all-illumining Agni, moving with the gods as the ever-flowing force of ṛta. He comes, widening the comradeship for his friends, unhindered—like a swift steed with its team.
यः । भा॒नुऽभिः॑ । वि॒भाऽवा॑ । वि॒ऽभाति॑ । अ॒ग्निः । दे॒वेभिः॑ । ऋ॒तऽवा॑ । अज॑स्रः । आ । यः । वि॒वाय॑ । स॒ख्या । सखि॑ऽभ्यः । प॒रि॒ऽह्वृतः॑ । अत्यः॑ । न । सप्तिः॑ ॥यः । भानुभिः । विभावा । विभाति । अग्निः । देवेभिः । ऋतवा । अजस्रः । आ । यः । विवाय । सख्या । सखिभ्यः । परिह्वृतः । अत्यः । न । सप्तिः ॥yaḥ | bhānu-bhiḥ | vibhāvā | vi-bhāti | agniḥ | devebhiḥ | ṛta-vā | ajasraḥ | ā | yaḥ | vivāya | sakhyā | sakhi-bhyaḥ | pari-hvṛtaḥ | atyaḥ | na | saptiḥ