Sukta 10.6
अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ । ज्येष्ठेभिर्यो भानुभिॠषूणां पर्येति परिवीतो विभावा ॥
अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ । ज्येष्ठे॑भि॒र्यो भा॒नुभि॑ॠषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा॑ ॥
ayáṃ sá yásya śármann ávobhir agnér édhaté jaritā́bhiṣṭau | jyéṣṭhebhir yó bhānúbhir ṛṣūṇā́ṃ páryeti párivīto vibhā́vā ||
This is he—under whose shelter, by his protecting powers, the singer grows in the desired offering to Agni. He who, luminous, encompassed, moves about the seers with his eldest rays, the all-illumining Fire.
अ॒यम् । सः । यस्य॑ । शर्म॑न् । अवः॑ऽभिः । अ॒ग्नेः । एध॑ते । ज॒रि॒ता । अ॒भिष्टौ॑ । ज्येष्ठे॑भिः । यः । भा॒नुऽभिः॑ । ऋ॒षू॒णाम् । प॒रि॒ऽएति॑ । परि॑ऽवीतः । वि॒भाऽवा॑ ॥अयम् । सः । यस्य । शर्मन् । अवःभिः । अग्नेः । एधते । जरिता । अभिष्टौ । ज्येष्ठेभिः । यः । भानुभिः । ऋषूणाम् । परिएति । परिवीतः । विभावा ॥ayam | saḥ | yasya | śarman | avaḥ-bhiḥ | agneḥ | edhate | jaritā | abhiṣṭau | jyeṣṭhebhiḥ | yaḥ | bhānu-bhiḥ | ṛṣūṇām | pari-eti | pari-vītaḥ | vibhāvā