Sukta 10.59
अव द्वके अव त्रिका दिवश्चरन्ति भेषजा । क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥
अव॑ द्व॒के अव॑ त्रि॒का दि॒वश्च॑रन्ति भेष॒जा । क्ष॒मा च॑रि॒ष्ण्वे॑क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥
áva dvaké áva trikā́ diváś caranti bheṣajá | kṣámā cariṣṇv ékakaṃ bháratām ápa yád rápō dyaúḥ pṛthivi kṣámā rápō mó ṣú te kíṃ canā́mamat ||
Down from the twofold and down from the threefold, the remedies move from Heaven; on the patient ground they move for the solitary one. Let Heaven and Earth carry away whatever affliction there is—may no harm at all touch you.
अव॑ । द्व॒के इति॑ । अव॑ । त्रि॒का । दि॒वः । च॒र॒न्ति॒ । भे॒ष॒जा । क्ष॒मा । च॒रि॒ष्णु॒ । ए॒क॒कम् । भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥अव । द्वके इति । अव । त्रिका । दिवः । चरन्ति । भेषजा । क्षमा । चरिष्णु । एककम् । भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥ava | dvake iti | ava | trikā | divaḥ | caranti | bheṣajā | kṣamā | cariṣṇuekakam | bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat