Sukta 10.59
शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा । भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥
शं रोद॑सी सु॒बन्ध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥
śáṃ rodasī́ su-bandhave yahvī́ ṛ́tasya mā́tarā | bháratām ápa yád rápō dyaúḥ pṛthivi kṣámā rápō mó ṣú te kíṃ canā́mamat ||
May Heaven and Earth be peace and good kinship to you—those wide-moving Mothers of Ṛta. Let them carry away the hurt and affliction; O Heaven, O Earth, O patient Ground—may no trace of disorder touch you.
शम् । रोद॑सी॒ इति॑ । सु॒ऽबन्ध॑वे । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ । भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥शम् । रोदसी इति । सुबन्धवे । यह्वी इति । ऋतस्य । मातरा । भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥śam | rodasī iti | su-bandhave | yahvī iti | ṛtasya | mātarā | bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat