Sukta 10.59
समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्या अनः । भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥
समि॑न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अन॑: । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥
sám indrēraya gā́m anaḍvā́haṃ yá ā́vahat uśīnarā́ṇyā ánaḥ | bháratām ápa yád rápō dyaúḥ pṛthivi kṣámā rápō mó ṣú te kíṃ canā́mamat ||
O Indra, set in motion the cow and the draught-ox that bring the wagon of the Uśīnaras—let the powers of support carry away whatever affliction there is; may no harm at all touch you.
सम् । इ॒न्द्र॒ । ई॒र॒य॒ । गाम् । अ॒न॒ड्वाह॑म् । यः । आ । स्व॑हत् । उ॒शी॒नरा॑ण्याः । अनः॑ । भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥सम् । इन्द्र । ईरय । गाम् । अनड्वाहम् । यः । आ । स्वहत् । उशीनराण्याः । अनः । भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥sam | indra | īraya | gām | anaḍavaḍhabadabadrahṇāham | yaḥ | ā | svahat | uśīnarāṇyāḥ | anaḥ | bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat