Sukta 10.59
पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् । पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥
पुन॑र्नो॒ असुं॑ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑र॒न्तरि॑क्षम् । पुन॑र्न॒: सोम॑स्त॒न्वं॑ ददातु॒ पुन॑: पू॒षा प॒थ्यां॒३॒॑ या स्व॒स्तिः ॥
púnar no asúṃ pṛthivī́ dadātu púnar dyaúr devī́ púnar antárikṣam | púnar naḥ sómas tanvā́ṃ dadātu púnaḥ pūṣā́ pathyā́ṃ yā́ svastíḥ ||
May Earth give back to us our life-breath; may the divine Heaven restore it; may the mid-world restore it. May Soma give back to us the embodied being; may Pūṣan restore the safe path—she who is well-being.
पुनः॑ । नः॒ । असु॑म् । पृ॒थि॒वी । द॒दा॒तु॒ । पुनः॑ । द्यौः । दे॒वी । पुनः॑ । अ॒न्तरि॑क्षम् । पुनः॑ । नः॒ । सोमः॑ । त॒न्व॑म् । द॒दा॒तु॒ । पुन॒रिति॑ । पू॒षा । प॒थ्या॑म् । या । स्व॒स्तिः ॥पुनः । नः । असुम् । पृथिवी । ददातु । पुनः । द्यौः । देवी । पुनः । अन्तरिक्षम् । पुनः । नः । सोमः । तन्वम् । ददातु । पुनरिति । पूषा । पथ्याम् । या । स्वस्तिः ॥punaḥ | naḥ | asum | pṛthivī | dadātu | punaḥ | dyauḥ | devī | punaḥ | antarikṣam | punaḥ | naḥ | somaḥ | tanvam | dadātu | punariti | pūṣā | pathyām | yā | svastiḥ