Sukta 10.59
असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥
असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो॑ धेहि॒ भोग॑म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति ॥
asunī́te púnar asmā́su cákṣuḥ púnaḥ prāṇám ihá no dhehi bhógam | jyók paśyema sū́ryam úccarantam ánumate mṛḷáyā naḥ svastí ||
O Asunīti, restore again in us the seeing; restore here our breath and set in us the capacity of enjoyment. Long may we behold the Sun ascending; O Anumati, be gracious to us—grant well-being.
असु॑ऽनीते । पुनः॑ । अ॒स्मासु॑ । चक्षुः॑ । पुन॒रिति॑ । प्रा॒णम् । इ॒ह । नः॒ । धे॒हि॒ । भोग॑म् । ज्योक् । प॒श्ये॒म॒ । सूर्य॑म् । उ॒त्ऽचर॑न्तम् । अनु॑ऽमते । मृ॒ळय॑ । नः॒ । स्व॒स्ति ॥असुनीते । पुनः । अस्मासु । चक्षुः । पुनरिति । प्राणम् । इह । नः । धेहि । भोगम् । ज्योक् । पश्येम । सूर्यम् । उत्चरन्तम् । अनुमते । मृळय । नः । स्वस्ति ॥asu-nīte | punaḥ | asmāsu | cakṣuḥ | punariti | prāṇam | iha | naḥ | dhehi | bhogam | jyok | paśyema | sūryam | ut-carantam | anu-mate | mṛḷaya | naḥ | svasti