Sukta 10.59
असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः । रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥
असु॑नीते॒ मनो॑ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयु॑: । रा॒र॒न्धि न॒: सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व ॥
asunī́te máno asmā́su dhāraya jī́vātave sú prá tirā na ā́yuḥ | rārā́ndhi naḥ sū́ryasya saṃdṛ́śi ghṛténa tváṃ tanvā́ṃ vardhayasva ||
O Leader of the life-breath, hold the mind firmly within us for living; carry our life-force safely forward. Establish us in the vision of the Sun; with the clarified richness (ghṛta) increase and strengthen our embodied being.
असु॑ऽनीते । मनः॑ । अ॒स्मासु॑ । धा॒र॒य॒ । जी॒वात॑वे । सु । प्र । ति॒र॒ । नः॒ । आयुः॑ । र॒र॒न्धि । नः॒ । सूर्य॑स्य । स॒म्ऽदृशि॑ । घृ॒तेन॑ । त्वम् । त॒न्व॑म् । व॒र्ध॒य॒स्व॒ ॥असुनीते । मनः । अस्मासु । धारय । जीवातवे । सु । प्र । तिर । नः । आयुः । ररन्धि । नः । सूर्यस्य । सम्दृशि । घृतेन । त्वम् । तन्वम् । वर्धयस्व ॥asu-nīte | manaḥ | asmāsu | dhāraya | jīvātave | su | pra | tira | naḥ | āyuḥ | rarandhi | naḥ | sūryasya | sam-dṛśi | ghṛtena | tvam | tanvam | vardhayasva