Sukta 10.56
द्विधा सूनवोऽसुरं स्वर्विदमास्थापयन्त तृतीयेन कर्मणा । स्वां प्रजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम् ॥
द्विधा॑ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था॑पयन्त तृ॒तीये॑न॒ कर्म॑णा । स्वां प्र॒जां पि॒तर॒: पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् ॥
dvídhā sū́navo ásuraṃ svaḥ-vidám ā́sthāpayanta tṛtī́yena kármaṇā | svā́ṃ prajā́ṃ pitáraḥ pitryáṃ sáha ā́váreṣv adadhus tántum ā́tatam ||
In two ways the Sons established the Asura, the finder of the heaven, by a third act of work. The Fathers set their own progeny, their ancestral strength, in the lower realms, laying down the thread stretched out.
द्विधा॑ । सू॒नवः॑ । असु॑रम् । स्वः॒ऽविद॑म् । आ । अ॒स्था॒प॒य॒न्त॒ । तृ॒तीये॑न । कर्म॑णा । स्वाम् । प्र॒ऽजाम् । पि॒तरः॑ । पित्र्य॑म् । सहः॑ । आ । अव॑रेषु । अ॒द॒धुः॒ । तन्तु॑म् । आऽत॑तम् ॥द्विधा । सूनवः । असुरम् । स्वःविदम् । आ । अस्थापयन्त । तृतीयेन । कर्मणा । स्वाम् । प्रजाम् । पितरः । पित्र्यम् । सहः । आ । अवरेषु । अदधुः । तन्तुम् । आततम् ॥dvidhā | sūnavaḥ | asuram | svaḥ-vidam | ā | asthāpayanta | tṛtīyena | karmaṇā | svām | pra-jām | pitaraḥ | pitryam | sahaḥ | ā | avareṣu | adadhuḥ | tantum | ātatam