Sukta 10.56
नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा । स्वां प्रजां बृहदुक्थो महित्वावरेष्वदधादा परेषु ॥
ना॒वा न क्षोद॑: प्र॒दिश॑: पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे॑षु ॥
nā́vā ná kṣódaḥ pradíśaḥ pṛthivyā́ḥ svastíbhir áti durgā́ṇi víśvā | svā́ṃ prajā́ṃ bṛhád-uktho mahitvā́váreṣv adadhād ā́ paréṣu ||
As with a ship across the pressing directions of earth, by the powers of well-being cross beyond all difficult passages. The wide-hymned One, in his greatness, has set his own progeny in the lower and also in the higher realms.
ना॒वा । न । क्षोदः॑ । प्र॒ऽदिशः॑ । पृ॒थि॒व्याः । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ । स्वाम् । प्र॒ऽजाम् । बृ॒हत्ऽउ॑क्थः । म॒हि॒ऽत्वा । अव॑रेषु । अ॒द॒धा॒त् । आ । परे॑षु ॥नावा । न । क्षोदः । प्रदिशः । पृथिव्याः । स्वस्तिभिः । अति । दुःगानि । विश्वा । स्वाम् । प्रजाम् । बृहत्उक्थः । महित्वा । अवरेषु । अदधात् । आ । परेषु ॥nāvā | na | kṣodaḥ | pra-diśaḥ | pṛthivyāḥ | svasti-bhiḥ | ati | duḥ-gāni | viśvā | svām | pra-jām | bṛhat-ukthaḥ | mahi-tvā | avareṣu | adadhāt | ā | pareṣu