Sukta 10.56
महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपि क्रतुम् । समविव्यचुरुत यान्यत्विषुरैषां तनूषु नि विविशुः पुनः ॥
म॒हि॒म्न ए॑षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतु॑म् । सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां॑ त॒नूषु॒ नि वि॑विशु॒: पुन॑: ॥
mahimná eṣā́ṃ pitáraś canéśire devā́ devéṣv adadhur ápi krátum | sám avivyacur utá yā́ny átviṣur éṣāṃ tanū́ṣu ní viviśuḥ púnaḥ ||
By their greatness even the Fathers took mastery; the gods set their will and power into the gods. They spread them out together, and whatever surged restlessly, that entered again into their bodies.
म॒हि॒म्नः । ए॒षा॒म् । पि॒तरः॑ । च॒न । ई॒शि॒रे॒ । दे॒वाः । दे॒वेषु । अ॒द॒धुः॒ । अपि॑ । क्रतु॑म् । सम् । अ॒वि॒व्य॒चुः॒ । उ॒त । यानि॑ । अत्वि॑षुः । आ । ए॒षा॒म् । त॒नूषु॑ । नि । वि॒वि॒शुः॒ । पुन॒रिति॑ ॥महिम्नः । एषाम् । पितरः । चन । ईशिरे । देवाः । देवेषु । अदधुः । अपि । क्रतुम् । सम् । अविव्यचुः । उत । यानि । अत्विषुः । आ । एषाम् । तनूषु । नि । विविशुः । पुनरिति ॥mahimnaḥ | eṣām | pitaraḥ | cana | īśire | devāḥ | deveṣu | adadhuḥ | api | kratum | sam | avivyacuḥ | uta | yāni | atviṣuḥ | ā | eṣām | tanūṣu | ni | viviśuḥ | punarit i