Sukta 10.56
वाज्यसि वाजिनेना सुवेनीः सुवितः स्तोमं सुवितो दिवं गाः । सुवितो धर्म प्रथमानु सत्या सुवितो देवान्त्सुवितोऽनु पत्म ॥
वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं॑ सुवि॒तो दिवं॑ गाः । सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्त्सु॑वि॒तोऽनु॒ पत्म॑ ॥
vā́jy asi vā́jinena suvenī́ḥ suvitáḥ stómam suvitó dívam gā́ḥ | suvitó dhárma prathamā́nu satyā́ suvitó devā́nt suvitó 'nu pátma ||
Thou art the plenitude, and by the plenitude thou bearest us well: a right-going leads the hymn, a right-going leads to heaven. A right-going is the Law, first following the truths; a right-going leads the gods, a right-going follows the path.
वा॒जी । अ॒सि॒ । वाजि॑नेन । सु॒ऽवे॒नीः । सु॒वि॒तः । स्तोम॑म् । सु॒वि॒तः । दिव॑म् । गाः॒ । सु॒वि॒तः । धर्म॑ । प्र॒थ॒मा । अनु॑ । स॒त्या । सु॒वि॒तः । दे॒वान् । सु॒वि॒तः । अनु॑ । पत्म॑ ॥वाजी । असि । वाजिनेन । सुवेनीः । सुवितः । स्तोमम् । सुवितः । दिवम् । गाः । सुवितः । धर्म । प्रथमा । अनु । सत्या । सुवितः । देवान् । सुवितः । अनु । पत्म ॥vājī | asi | vājinena | su-venīḥ | suvitaḥ | stomam | suvitaḥ | divam | gāḥ | suvitaḥ | dharma | prathamā | anu | satyā | suvitaḥ | devān | suvitaḥ | anu | patma