Sukta 10.56
तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धातु शर्म तुभ्यम् । अह्रुतो महो धरुणाय देवान्दिवीव ज्योतिः स्वमा मिमीयाः ॥
त॒नूष्टे॑ वाजिन्त॒न्वं१॒॑ नय॑न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य॑म् । अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वान्दि॒वी॑व॒ ज्योति॒: स्वमा मि॑मीयाः ॥
tanū́s te vājin tanváṃ náyantī vāmám asmábhyaṃ dhā́tu śárma túbhyam | áhruto mahó dharuṇā́ya devā́n divī́va jyótiḥ svám ā́ mimīyāḥ ||
O lord of plenitudes, may thy embodied force leading thee bring for us the desirable peace, and for thee as well. Unharmed, for the great foundation, mayest thou measure out thine own light as in heaven for the gods.
त॒नूः । ते॒ । वा॒जि॒न् । त॒न्व॑म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धातु॑ । शर्म॑ । तुभ्य॑म् । अह्रु॑तः । म॒हः । ध॒रुणा॑य । दे॒वान् । दि॒विऽइ॑व । ज्योतिः॑ । स्वम् । आ । मि॒मी॒याः॒ ॥तनूः । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धातु । शर्म । तुभ्यम् । अह्रुतः । महः । धरुणाय । देवान् । दिविइव । ज्योतिः । स्वम् । आ । मिमीयाः ॥tanūḥ | te | vājin | tanvam | nayantī | vāmam | asmabhyam | dhātu | śarma | tubhyam | ahrutaḥ | mahaḥ | dharuṇāya | devān | divi-iva | jyotiḥ | svam | ā | mimīyāḥ