Sukta 10.56
इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥
इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व । सं॒वेश॑ने त॒न्व१॒॑श्चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे॑ ॥
idáṃ tá ekáṃ pará oṃ́ tá ekáṃ tṛtī́yena jyótiṣā sáṃ viśasva | saṃvéśane tanváś cā́rur edhi priyó devā́nāṃ paramé janítre ||
This is one seat for thee, and that beyond is another; enter in by the third Light. In the meeting-place of the bodies become beautiful and kindled—beloved of the gods in the supreme birth-place.
इ॒दम् । ते॒ । एक॑म् । प॒रः । ऊँ॒ इति॑ । ते॒ । एक॑म् । तृ॒तीये॑न । ज्योति॑षा । सम् । वि॒श॒स्व॒ । स॒म्ऽवेश॑ने । त॒न्वः॑ । चारुः॑ । ए॒धि॒ । प्रि॒यः । दे॒वाना॑म् । प॒र॒मे । ज॒नित्रे॑ ॥इदम् । ते । एकम् । परः । ऊँ इति । ते । एकम् । तृतीयेन । ज्योतिषा । सम् । विशस्व । सम्वेशने । तन्वः । चारुः । एधि । प्रियः । देवानाम् । परमे । जनित्रे ॥idam | te | ekam | paraḥ | oṃ iti | te | ekam | tṛtīyena | jyotiṣā | sam | viśasva | sam-veśane | tanvaḥ | cāruḥ | edhi | priyaḥ | devānām | parame | janitre