Sukta 10.55
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीळः । यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥
शाक्म॑ना शा॒को अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूर॑: स॒नादनी॑ळः । यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता॑ ॥
śā́kmanā śā́ko aruṇáḥ suparṇá ā́ yó maháḥ śū́raḥ sanā́d anī́ḷaḥ | yác cikéta satyám ít tán ná mógham vásu spārhám utá jétotā́ dā́tā ||
With a puissant strength the radiant, fair-winged One comes—heroic in the Vast, from of old unwearied in the march. Whatever he discerns is truth indeed; that is never vain: he wins the desirable plenitude and he also gives it.
शाक्म॑ना । शा॒कः । अ॒रु॒णः । सु॒ऽप॒र्णः । आ । यः । म॒हः । शूरः॑ । स॒नात् । अनी॑ळः । यत् । चि॒केत॑ । स॒त्यम् । इत् । तत् । न । मोघ॑म् । वसु॑ । स्पा॒र्हम् । उ॒त । जेता॑ । उ॒त । दाता॑ ॥शाक्मना । शाकः । अरुणः । सुपर्णः । आ । यः । महः । शूरः । सनात् । अनीळः । यत् । चिकेत । सत्यम् । इत् । तत् । न । मोघम् । वसु । स्पार्हम् । उत । जेता । उत । दाता ॥śākmanā | śākaḥ | aruṇaḥ | su-parṇaḥ | ā | yaḥ | mahaḥ | śūraḥ | sanāt | anīḷaḥ | yat | ciketa | satyam | it | tat | na | mogham | vasu | spārham | uta | jetā | uta | dātā