Sukta 10.55
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥
वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥
vidhúṃ dadrāṇáṃ sámane bahūnā́ṃ yúvānaṃ sántaṃ palitó jagāra | devásya páśya kā́vyaṃ mahitvā́dyá mamā́ra sá hyáḥ samā́na ||
The grey one devoured the swift in the gathering of many, though he was youthful. Behold the poet-craft of the god by his greatness: today he has died—yet yesterday he was the same.
वि॒धुम् । द॒द्रा॒णम् । सम॑ने । ब॒हू॒नाम् । युवा॑नम् । सन्त॑म् । प॒लि॒तः । ज॒गा॒र॒ । दे॒वस्य॑ । प॒श्य॒ । काव्य॑म् । म॒हि॒ऽत्वा । अ॒द्य । म॒मार॑ । सः । ह्यः । सम् । आ॒न॒ ॥विधुम् । दद्राणम् । समने । बहूनाम् । युवानम् । सन्तम् । पलितः । जगार । देवस्य । पश्य । काव्यम् । महित्वा । अद्य । ममार । सः । ह्यः । सम् । आन ॥vidhum | dadrāṇam | samane | bahūnām | yuvānam | santam | palitaḥ | jagāra | devasya | paśya | kāvyam | mahi-tvā | adya | mamāra | saḥ | hyaḥ | sam | āna