Sukta 10.55
आ रोदसी अपृणादोत मध्यं पञ्च देवाँ ऋतुशः सप्तसप्त । चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥
आ रोद॑सी अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त । चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू॑पेण॒ ज्योति॑षा॒ विव्र॑तेन ॥
ā́ rodasī́ apṛṇād ótá mádhyaṃ páñca devā́ṃ ṛtu-śáḥ saptá-sapta | cátuḥ-triṃśatā purudhā́ ví caṣṭe sarū́peṇa jyótiṣā vívratena ||
He filled the two worlds and also the mid-region; (he set) the five gods according to the seasons, the seven-and-seven. By the thirty-two he beholds in many ways, with a light of one likeness yet of wide-ranging law.
आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । आ । उ॒त । मध्य॑म् । पञ्च॑ । दे॒वान् । ऋ॒तु॒ऽशः । स॒प्तऽस॑प्त । चतुः॑ऽत्रिंशता । पु॒रु॒धा । वि । च॒ष्टे॒ । सऽरू॑पेण । ज्योति॑षा । विऽव्र॑तेन ॥आ । रोदसी इति । अपृणात् । आ । उत । मध्यम् । पञ्च । देवान् । ऋतुशः । सप्तसप्त । चतुःत्रिंशता । पुरुधा । वि । चष्टे । सरूपेण । ज्योतिषा । विव्रतेन ॥ā | rodasī iti | apṛṇāt | ā | uta | madhyam | pañca | devān | ṛtu-śaḥ | sapta-sapta | catuḥ-tri ṃśatā | purudhā | vi | caṣṭe | sa-rūpeṇa | jyotiṣā | vi-vratena