Sukta 10.55
महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम् । प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च ॥
म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य॑म् । प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ॥
mahát tán nā́ma gúhyaṃ puru-spṛ́g yéna bhūtáṃ jánayo yéna bhávyam | prátnam jātáṃ jyótir yád asya priyáṃ priyā́ḥ sám aviśanta páñca ||
Great is that hidden Name, touching many things—by which you bring forth what has been and by which what is to be. The ancient light that is born, his beloved (seat), into which the five dear ones enter together.
म॒हत् । तत् । नाम॑ । गुह्य॑म् । पु॒रु॒ऽस्पृक् । येन॑ । भू॒तम् । ज॒नयः॑ । येन॑ । भव्य॑म् । प्र॒त्नम् । जा॒तम् । ज्योतिः॑ । यत् । अ॒स्य॒ । प्रि॒यम् । प्रि॒याः । सम् । अ॒वि॒श॒न्त॒ । पञ्च॑ ॥महत् । तत् । नाम । गुह्यम् । पुरुस्पृक् । येन । भूतम् । जनयः । येन । भव्यम् । प्रत्नम् । जातम् । ज्योतिः । यत् । अस्य । प्रियम् । प्रियाः । सम् । अविशन्त । पञ्च ॥mahat | tat | nāma | guhyam | puru-spṛk | yena | bhūtam | janayaḥ | yena | bhavyam | pratnam | jātam | jyotiḥ | yat | asya | priyam | priyāḥ | sam | aviśanta | pañca