Sukta 10.55
दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै । उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवन्तित्विषाणः ॥
दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै । उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातु॑: पु॒त्रान्म॑घवन्तित्विषा॒णः ॥
dūré tán nā́ma gúhyaṃ parācáir yát tvā bhīté áhvayetāṃ vayodhái | úd astabhnāḥ pṛthivī́ṃ dyā́m abhī́ke bhrā́tuḥ putrā́n maghavan titviṣā́ṇaḥ ||
Far away is that hidden Name, turned from the outward-going; yet the two afraid ones call you, O disposer of plenitude. You have propped up Earth and Heaven near at hand, O Maghavan, blazing forth, (saving) the sons of the brother.
दू॒रे । तत् । नाम॑ । गुह्य॑म् । प॒रा॒चैः । यत् । त्वा॒ । भी॒ते इति॑ । अह्व॑येताम् । व॒यः॒ऽधै । उत् । अ॒स्त॒भ्नाः॒ । पृ॒थि॒वीम् । द्याम् । अ॒भीके॑ । भ्रातुः॑ । पु॒त्रान् । म॒घ॒ऽव॒न् । ति॒त्वि॒षा॒णः ॥दूरे । तत् । नाम । गुह्यम् । पराचैः । यत् । त्वा । भीते इति । अह्वयेताम् । वयःधै । उत् । अस्तभ्नाः । पृथिवीम् । द्याम् । अभीके । भ्रातुः । पुत्रान् । मघवन् । तित्विषाणः ॥dūre | tat | nāma | guhyam | parācaiḥ | yat | tvā | bhīte iti | ahvayetām | vayaḥ-dhai | ut | astabhnāḥ | pṛthivīm | dyām | abhīke | bhrātuḥ | putrān | magha-van | titviṣāṇaḥ