Sukta 10.54
यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से ॥
यदच॑रस्त॒न्वा॑ वावृधा॒नो बला॑नीन्द्र प्रब्रुवा॒णो जने॑षु । मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं॑ न॒नु पु॒रा वि॑वित्से ॥
yád ácaras tanvā́ vāvṛdhānó bálānīndra prábruvāṇo jáneṣu | māyét sá te yā́ni yuddhā́ny āhúr nā́dya śátruṃ nánu purā́ vivitse ||
When you moved in your own body, growing in force, O Indra, proclaiming your powers among the peoples—this indeed is your Māyā, those battles they speak of; you do not today seek out an enemy, for you had already discerned him before.
यत् । अच॑रः । त॒न्वा॑ । व॒वृ॒धा॒नः । बला॑नि । इ॒न्द्र॒ । प्र॒ऽब्रु॒वा॒णः । जने॑षु । मा॒या । इत् । सा । ते॒ । यानि॑ । यु॒द्धानि॑ । आ॒हुः । न । अ॒द्य । शत्रु॑म् । न॒नु । पु॒रा । वि॒वि॒त्से॒ ॥यत् । अचरः । तन्वा । ववृधानः । बलानि । इन्द्र । प्रब्रुवाणः । जनेषु । माया । इत् । सा । ते । यानि । युद्धानि । आहुः । न । अद्य । शत्रुम् । ननु । पुरा । विवित्से ॥yat | acaraḥ | tanvā | vavṛdhānaḥ | balāni | indra | pra-bruvāṇaḥ | janeṣu | māyā | it | sā | te | yāni | yuddhāni | āhuḥ | na | adya | śatrum | nanu | purā | vivitse