Sukta 10.54
क उ नु ते महिमनः समस्यास्मत्पूर्व ऋषयोऽन्तमापुः । यन्मातरं च पितरं च साकमजनयथास्तन्वः स्वायाः ॥
क उ॒ नु ते॑ महि॒मन॑: समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः । यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्व१॒॑: स्वाया॑: ॥
ká u nú te mahimánaḥ samasyā́smát pū́rva ṛ́ṣayo ántam āpuḥ | yán mātáraṃ ca pitáraṃ ca sākám ájanayathās tanvàḥ svā́yāḥ ||
Who indeed has reached the limit of your greatness, O One—(a greatness) whose full measure even the former seers could not attain—since you brought forth together the Mother and the Father from your own being?
के । ऊँ॒ इति॑ । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । अ॒स्मत् । पूर्वे॑ । ऋष॑यः । अन्त॑म् । आ॒पुः॒ । यत् । मा॒तर॑म् । च॒ । पि॒तर॑म् । च॒ । सा॒कम् । अज॑नयथाः । त॒न्वः॑ । स्वायाः॑ ॥के । ऊँ इति । नु । ते । महिमनः । समस्य । अस्मत् । पूर्वे । ऋषयः । अन्तम् । आपुः । यत् । मातरम् । च । पितरम् । च । साकम् । अजनयथाः । तन्वः । स्वायाः ॥ke | oṃ iti | nu | te | mahimanaḥ | samasya | asmat | pūrve | ṛṣayaḥ | antam | āpuḥ | yat | mātaram | ca | pitaram | ca | sākam | ajanayathāḥ | tanvaḥ | svāyāḥ