Sukta 10.52
आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि । आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वाः पृतना जयाति ॥
आ वो॑ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा॑ वो देवा॒ वरि॑व॒: करा॑णि । आ बा॒ह्वोर्वज्र॒मिन्द्र॑स्य धेया॒मथे॒मा विश्वा॒: पृत॑ना जयाति ॥
ā́ vo yakṣy amṛtátvaṃ suvī́raṃ yáthā vo devā́ varívaḥ karāṇi | ā́ bāhvór vájram índrasya dheyām áthemā́ viśvā́ḥ pṛ́tanā jayāti ||
I will sacrifice to you for immortality and a hero-force, so that, O Gods, I may make wide room for you within me. I will set in my arms the thunder-power of Indra; then may all these battles be won—every struggle where Light must prevail over the resisting darkness.
आ । वः॒ । य॒क्षि॒ । अ॒मृत॒ऽत्वम् । सु॒ऽवीर॑म् । यथा॑ । वः॒ । दे॒वाः॒ । वरि॑वः । करा॑णि । आ । बा॒ह्वोः । वज्र॑म् । इन्द्र॑स्य । धेया॑म् । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒ति॒ ॥आ । वः । यक्षि । अमृतत्वम् । सुवीरम् । यथा । वः । देवाः । वरिवः । कराणि । आ । बाह्वोः । वज्रम् । इन्द्रस्य । धेयाम् । अथ । इमाः । विश्वाः । पृतनाः । जयाति ॥ā | vaḥ | yakṣi | amṛta-tvam | su-vīram | yathā | vaḥ | devāḥ | varivaḥ | karāṇi | ā | bāhvoḥ | vajram | indrasya | dheyām | atha | imāḥ | viśvāḥ | pṛtanāḥ | jayāti