Sukta 10.52
मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरन्तम् । अग्निर्विद्वान्यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥
मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चर॑न्तम् । अ॒ग्निर्वि॒द्वान्य॒ज्ञं न॑: कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ॥
mā́ṃ devā́ dadhire havya-vā́ham ápamluktaṃ bahú kṛcchrā́ cárantam | agnír vidvā́n yajñáṃ naḥ kalpayāti páñca-yāmam tri-vṛ́taṃ saptá-tantum ||
The Gods established me as the Carrier of the offering—unfaltering, moving through many difficulties. Agni, the Knower, fashions for us the sacrifice: fivefold in its movements, triple-woven in its form, seven-threaded in its continuity—an ordered work of consciousness.
माम् । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् । अप॑ऽम्लुक्तम् । ब॒हु । कृ॒च्छ्रा । चर॑न्तम् । अ॒ग्निः । वि॒द्वान् । य॒ज्ञम् । नः॒ । क॒ल्प॒या॒ति॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ॥माम् । देवाः । दधिरे । हव्यवाहम् । अपम्लुक्तम् । बहु । कृच्छ्रा । चरन्तम् । अग्निः । विद्वान् । यज्ञम् । नः । कल्पयाति । पञ्चयामम् । त्रिवृतम् । सप्ततन्तुम् ॥mām | devāḥ | dadhire | havya-vāham | apa-mluktam | bahu | kṛcchrā | carantam | agniḥ | vidvān | yajñam | naḥ | kalpayāti | pañca-yāmam | tri-vṛtam | sapta-tantum