Sukta 10.52
अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः । अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहम् ॥
अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू॑हे॒ यत्स॑म॒ञ्जन्ति॑ दे॒वाः । अह॑रहर्जायते मा॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥
ayáṃ yó hotā́ kíru sá yámasya kám apy ū́he yát sam-añjánti devā́ḥ | áhar-ahar jā́yate mā́si-māsi áthā devā́ dadhire havya-vā́ham ||
This Hotṛ—who is he? I ponder even the mystery of Yama: for the Gods anoint and prepare him. Day by day he is born, month by month; thus the Gods established the Carrier of the offering—ever new in manifestation, yet one in essence.
अ॒यम् । यः । होता॑ । किः । ऊँ॒ इति॑ । सः । य॒मस्य॑ । कम् । अपि॑ । ऊ॒हे॒ । यत् । स॒म्ऽअ॒ञ्जन्ति॑ । दे॒वाः । अहः॑ऽअहः । जा॒य॒ते॒ । मा॒सिऽमा॒सि । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥अयम् । यः । होता । किः । ऊँ इति । सः । यमस्य । कम् । अपि । ऊहे । यत् । सम्अञ्जन्ति । देवाः । अहःअहः । जायते । मासिमासि । अथ । देवाः । दधिरे । हव्यवाहम् ॥ayam | yaḥ | hotā | kiḥ | oṃ iti | saḥ | yamasya | kam | api | ūhe | yat | sam-añjanti | devāḥ | ahaḥ-ahaḥ | jāyate | māsi-māsi | atha | devāḥ | dadhire | havya-vāham