Sukta 10.49
अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि । अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये ॥
अ॒हं स॒प्त स्र॒वतो॑ धारयं॒ वृषा॑ द्रवि॒त्न्व॑: पृथि॒व्यां सी॒रा अधि॑ । अ॒हमर्णां॑सि॒ वि ति॑रामि सु॒क्रतु॑र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये॑ ॥
ahaṃ saptá sraváto dhā́rayaṃ vṛ́ṣā dravitnvaḥ pṛthivyā́ṃ sīrā́ ádhi | ahám arṇā́ṃsi ví tirāmi su-krátur yúdhā vídaṃ mánave gātúm iṣṭáye ||
I, the Bull-force, held the seven streams in their course and set the plough-lines upon the earth for the bringers of abundance. I, of good will and right discernment, cross over the floods of being; by battle I find for the human a path for the fulfilment of the seeking.
अ॒हम् । स॒प्त । स्र॒वतः॑ । धा॒र॒य॒म् । वृषा॑ । द्र॒वि॒त्न्वः॑ । पृ॒थि॒व्याम् । सी॒राः । अधि॑ । अ॒हम् । अर्णां॑सि । वि । ति॒रा॒मि॒ । सु॒ऽक्रतुः॑ । यु॒धा । वि॒द॒म् । मन॑वे । गा॒तुम् । इ॒ष्टये॑ ॥अहम् । सप्त । स्रवतः । धारयम् । वृषा । द्रवित्न्वः । पृथिव्याम् । सीराः । अधि । अहम् । अर्णांसि । वि । तिरामि । सुक्रतुः । युधा । विदम् । मनवे । गातुम् । इष्टये ॥aham | sapta | sravataḥ | dhārayam | vṛṣā | dravitnvaḥ | pṛthivyām | sīrāḥ | adhi | aham | arṇāṃsi | vi | tirāmi | su-kratuḥ | yudhā | vidam | manave | gātum | iṣṭaye