Sukta 10.49
अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् । स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् ॥
अ॒हं तदा॑सु धारयं॒ यदा॑सु॒ न दे॒वश्च॒न त्वष्टाधा॑रय॒द्रुश॑त् । स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर॑म् ॥
ahaṃ tád ā́su dhā́rayaṃ yád ā́su ná deváś caná tváṣṭā́dhārayad rúśat | spārháṃ gávām ū́dhaḥ-su vakṣáṇāsv ā́ mádhor mádhu śvā́tryaṃ sómam āśíram ||
I upheld that in them which no god at all—not even Tvaṣṭṛ—could uphold: the shining, desirable sweetness. I brought the honey of honey, the Soma-mixture, into the udders and breasts of the cows—into the radiant sources—so the nourishment of delight might be drawn.
अ॒हम् । तत् । आ॒सु॒ । धा॒र॒य॒म् । यत् । आ॒सु॒ । न । दे॒वः । च॒न । त्वष्टा॑ । अधा॑रयत् । रुश॑त् । स्पा॒र्हम् । गवा॑म् । ऊधः॑ऽसु । व॒क्षणा॑सु । आ । मधोः॑ । मधु॑ । श्वात्र्य॑म् । सोम॑म् । आ॒ऽशिर॑म् ॥अहम् । तत् । आसु । धारयम् । यत् । आसु । न । देवः । चन । त्वष्टा । अधारयत् । रुशत् । स्पार्हम् । गवाम् । ऊधःसु । वक्षणासु । आ । मधोः । मधु । श्वात्र्यम् । सोमम् । आशिरम् ॥aham | tat | āsu | dhārayam | yat | āsu | na | devaḥ | cana | tvaṣṭā | adhārayat | ruśat | spārham | gavām | ūdhaḥ-su | vakṣaṇāsu | ā | madhoḥ | madhu | śvātryam | somam | āśiram