Sukta 10.49
अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् । अहं न्यन्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम् ॥
अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टर॒: प्राश्रा॑वयं॒ शव॑सा तु॒र्वशं॒ यदु॑म् । अ॒हं न्य१॒॑न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयम् ॥
ahaṃ saptá-hā́ náhuṣo náhuṣ-taraḥ práśrāvayaṃ śávasā turváśaṃ yáduṃ | ahaṃ ny-à̀nyaṃ sáhasā sáhaḥ-karaṃ náva vrā́dhato navatíṃ ca vakṣayam ||
I am the slayer of the Seven, stronger than Nahusha; by my force I drove forth Turvaśa and Yadu. I, with might, pressed down the other power that makes force against us; I made nine and ninety of the disturbers fall away.
अ॒हम् । स॒प्त॒ऽहा । नहु॑षः । नहुः॑ऽतरः । प्र । अ॒श्र॒व॒य॒म् । शव॑सा । तु॒र्वश॑म् । यदु॑म् । अ॒हम् । नि । अ॒न्यम् । सह॑सा । सहः॑ । क॒र॒म् । नव॑ । व्राध॑तः । न॒व॒तिम् । च॒ । व॒क्ष॒य॒म् ॥अहम् । सप्तहा । नहुषः । नहुःतरः । प्र । अश्रवयम् । शवसा । तुर्वशम् । यदुम् । अहम् । नि । अन्यम् । सहसा । सहः । करम् । नव । व्राधतः । नवतिम् । च । वक्षयम् ॥aham | sapta-hā | nahuṣaḥ | nahuḥ-taraḥ | pra | aśravayam | śavasā | turvaśam | yadum | aham | ni | anyam | sahasā | sahaḥ | karam | nava | vrādhataḥ | navatim | ca | vakṣayam