Sukta 10.49
अहं सूर्यस्य परि याम्याशुभिः प्रैतशेभिर्वहमान ओजसा । यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथैः ॥
अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभि॒: प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा । यन्मा॑ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथै॑: ॥
ahaṃ sū́ryasya pári yāmy āśúbhiḥ práitaśebhir váhamāna ójasā | yán mā sā́vo mánuṣa ā́ha nírṇije ṛ́dhak kṛ́ṣe dā́saṃ kṛ́tvyaṃ háthaiḥ ||
I move around the Sun, borne by swift powers, drawn by the bright steeds, carried by might. When the human impeller calls me for the revealing splendour, I separate out and crush the hostile dark force, the one fit to be made powerless, by decisive blows.
अ॒हम् । सूर्य॑स्य । परि॑ । या॒मि॒ । आ॒शुऽभिः । प्र । ए॒त॒शेभिः । वह॑मानः । ओज॑सा । यत् । मा॒ । सा॒वः । मनु॑षः । आह॑ । निः॒ऽनिजे॑ । ऋध॑क् । कृ॒षे॒ । दासम् । कृत्व्य॑म् । हथैः॑ ॥अहम् । सूर्यस्य । परि । यामि । आशुभिः । प्र । एतशेभिः । वहमानः । ओजसा । यत् । मा । सावः । मनुषः । आह । निःनिजे । ऋधक् । कृषे । दासम् । कृत्व्यम् । हथैः ॥aham | sūryasya | pari | yāmi | āśu-bhiḥ | pra | etaśebhiḥ | vahamānaḥ | ojasā | yat | mā | sāvaḥ | manuṣaḥ | āha | niḥ-nije | ṛdhak | kṛṣe | dāsam | kṛtvyam | hathaiḥ