Sukta 10.49
अहं पितेव वेतसूँरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् । अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे ॥
अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा॑य॒ स्मदि॑भं च रन्धयम् । अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे॑ ॥
aháṃ pitéva vetasū́n abhiṣṭáye túgraṃ kútsāya smádibhaṃ ca randhayam | aháṃ bhuvaṃ yájamānasya rājáni prá yád bháre tújaye ná priyā́dhṛṣe ||
Like a father for aid, I won the Vetasus; I subdued Tugra and the Smadibha for Kutsa. I become the kingly power of the sacrificer whenever he bears forward the battle-burden, pressing on without being checked by what is merely pleasing.
अ॒हम् । पि॒ताऽइ॑व । वे॒त॒सून् । अ॒भिष्ट॑ये । तुग्र॑म् । कुत्सा॑य । स्मत्ऽइ॑भम् । च॒ । र॒न्ध॒य॒म् । अ॒हम् । भु॒व॒म् । यज॑मानस्य । रा॒जनि॑ । प्र । यत् । भ॒रे॒ । तुज॑ये । न । प्रि॒या । आ॒ऽधृषे॑ ॥अहम् । पिताइव । वेतसून् । अभिष्टये । तुग्रम् । कुत्साय । स्मत्इभम् । च । रन्धयम् । अहम् । भुवम् । यजमानस्य । राजनि । प्र । यत् । भरे । तुजये । न । प्रिया । आधृषे ॥aham | pitāiva | vetasūn | abhiṣṭaye | tugram | kutsāya | smat-ibham | ca | randhayam | aham | bhuvam | yajamānasya | rājani | pra | yat | bhare | tujaye | na | priyā | ādhṛṣe