Sukta 10.49
अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः । अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥
अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभि॑: । अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥
ahám átkaṃ kaváye śiśnathaṃ háthaiḥ aháṃ kútsam ā́vam ābhír ūtíbhiḥ | aháṃ śúṣṇasya śnáthitā vádhar yámam ná yó ráre ā́ryaṃ nā́ma dásyave ||
I shattered Atka for the seer with my blows; I saved Kutsa with my helpings. I was the breaker of Śuṣṇa, a death like Yama for the one who would barter away the Aryan name to the Dasyu.
अ॒हम् । अत्क॑म् । क॒वये॑ । शि॒श्न॒थ॒म् । हथैः॑ । अ॒हम् । कुत्स॑म् । आ॒व॒म् । आ॒भिः । ऊ॒तिऽभिः॑ । अ॒हम् । शुष्ण॑स्य । श्नथि॑ता । वधः॑ । यम॑म् । न । यः । र॒रे । आर्य॑म् । नाम॑ । दस्य॑वे ॥अहम् । अत्कम् । कवये । शिश्नथम् । हथैः । अहम् । कुत्सम् । आवम् । आभिः । ऊतिभिः । अहम् । शुष्णस्य । श्नथिता । वधः । यमम् । न । यः । ररे । आर्यम् । नाम । दस्यवे ॥aham | atkam | kavaye | śiśnatham | hathaiḥ | aham | kutsam | āvam | ābhiḥ | ūti-bhiḥ | aham | śuṣṇasya | śnathitā | vadhaḥ | yamam | na | yaḥ | rare | āryam | nāma | dasyave