Sukta 10.49
मां धुरिन्द्रं नाम देवता दिवश्च ग्मश्चापां च जन्तवः । अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्वा ददे ॥
मां धु॒रिन्द्रं॒ नाम॑ दे॒वता॑ दि॒वश्च॒ ग्मश्चा॒पां च॑ ज॒न्तव॑: । अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ॥
mā́ṃ dhur índraṃ nā́ma devátā diváś ca gmáś cā́pāṃ ca jantávaḥ | aháṃ harī́ vṛ́ṣaṇā vivrátā raghū́ aháṃ vájraṃ śávase dhṛṣṇv ā́ dade ||
The gods set me as ‘Indra’ by name—those of heaven, of earth, and of the waters, the beings. I (yoke) the two tawny steeds, two mighty ones of free course and swift movement; I take up the thunderbolt for the force of daring.
माम् । धुः॒ । इन्द्र॑म् । नाम॑ । दे॒वता॑ । दि॒वः । च॒ । ग्मः । च॒ । अ॒पाम् । च॒ । ज॒न्तवः॑ । अ॒हम् । हरी॒ इति॑ । वृष॑णा । विऽव्र॑ता । र॒घू इति॑ । अ॒हम् । वज्र॑म् । शव॑से । धृ॒ष्णु । आ । द॒दे॒ ॥माम् । धुः । इन्द्रम् । नाम । देवता । दिवः । च । ग्मः । च । अपाम् । च । जन्तवः । अहम् । हरी इति । वृषणा । विव्रता । रघू इति । अहम् । वज्रम् । शवसे । धृष्णु । आ । ददे ॥mām | dhuḥ | indram | nāma | devatā | divaḥ | ca | gmaḥ | ca | apām | ca | jantavaḥ | aham | harī iti | vṛṣaṇā | vi-vratā | raghū iti | aham | vajram | śavase | dhṛṣṇu | ā | dade